Search This Blog

Saturday, March 29, 2014

श्रीदॆवीमङ्गलाष्टकम्



कनत्कनकताटङ्कविलसन्मुखपङ्कजॆ ।
कारुण्यवारिधॆ त्वं मॆ सन्ततं मङ्गलं कुरु ॥ १ ॥

खण्डिताखिलदैतॆये खर्वशून्यास्त्रवैभवॆ ।
गिरिराजसुतॆ दॆवि सन्ततं मङ्गलं कुरु ॥ २ ॥

घनराजिनिभाखर्वसुगन्धिकुटिलालकॆ ।
चण्डमुण्डादिदर्पघ्नि सन्ततं मङ्गलं कुरु ॥ ३ ॥

छत्रीकृतयशॊराशॆ छॆदिताखिलपातकॆ ।
जगदाधारसन्मूर्तॆ सन्ततं मङ्गलं कुरु ॥ ४ ॥

तत्वमस्यादिलक्ष्यार्थॆ तापत्रयविभंजिनि ।
दण्डनीतिस्थितॆ दॆवि सन्ततं मङ्गलं कुरु ॥ ५ ॥
धराधरसुतॆ दॆवि धनधान्यविवर्धनि ।
दयमानासितापाङ्गॆ सन्ततं मङ्गलं कुरु ॥ ६ ॥

पञ्चप्रॆतासनासीनॆ पञ्चसंख्यॊपचारिणि ।
परमानन्दनिलयॆ सन्ततं मङ्गलं कुरु ॥ ७ ॥

अकारादिक्षकारन्त वर्णरूपॆ महॆश्वरि ।
अविद्यामूलविच्छॆत्रि सन्ततं मङ्गलं कुरु ॥ ८ ॥

मंगलाष्टकमेतद्वै यः पठॆत् भक्तिसंयुतः ।
आयुरारॊग्यमैश्वर्यं पुत्रपौत्रादिकं लभॆत् ॥ ९ ॥

No comments:

Post a Comment