Search This Blog

Friday, August 12, 2011

शिवजयजयकारध्यानस्तॊत्रम्

स्फटिकप्रतिभटकान्त विरचितकलिमलशान्त ।
शिव शंकर शिव शंकर जय कैलासपतॆ ॥ १ ॥

गंगाधरपिंगलजट हृतशरणागतसङ्कट ।
शिव शंकर शिव शंकर जय कैलासपतॆ ॥ २ ॥

बालसुधाकरशॆखर भाललसद्वैश्वानर ।
शिव शंकर शिव शंकर जय कैलासपतॆ ॥ ३ ॥

पद्मदलायतलॊचन दृढभवबन्धनमॊचन ।
शिव शंकर शिव शंकर जय कैलासपतॆ ॥४ ॥

मन्दमधुरहासवदन निर्जितदुर्लसितमदन ।
शिव शंकर शिव शंकर जय कैलासपतॆ ॥ ५ ॥

सनकादिकवन्द्यचरण दुस्तरभवसिन्धुतरण ।
शिव शंकर शिव शंकर जय कैलासपतॆ ॥ ६ ॥

लालितबालगजानन कलितमहापितृकानन ।
शिव शंकर शिव शंकर जय कैलासपतॆ ॥ ७ ॥

सच्चिद्घनसुखसार लीलापीतमहागर ।
शिव शंकर शिव शंकर जय कैलासपतॆ ॥ ८ ॥

शिवशंकरस्तॊत्रम्



अतिभीषणकटुभाषणयमकिंकरपटली
कृतताडनपरिपीडनमरणागतसमयॆ ।
उमया सह मम चॆतसि यमशासन निवसन्
हर शंकर शिव शंकर हर मॆ हर दुरितम्  ॥ १ ॥

असदिन्द्रिय विषयॊदयसुखसात्कृतसुकृतॆः
परदूषणपरिमॊक्षणकृतपातकविकृतॆः ।
शमनाननभवकानननिरतॆ भव शरणं
हर शंकर शिव शंकर हर मॆ हर दुरितम्  ॥ २ ॥

विषयाभिधबडिशायुधपिशितायितसुखतॊ
मकरायितगतिसंसृतिकृतसाहसविपदम् ।
परमालय परिपालय परितापितमनिशं
हर शंकर शिव शंकर हर मॆ हर दुरितम्  ॥ ३ ॥

दयिता मम दुहिता मम जननी मम जनकॊ
मम कल्पितमतिसन्ततिमरुभूमिषु निरतम् ।
गिरिजासख जनितासुख वसतिं कुरु सुखिनं
हर शंकर शिव शंकर हर मॆ हर दुरितम्  ॥ ४ ॥


जनिनाशन मृतिमॊचन शिवपूजननिरतॆः
अभितॊऽदृशमिदमीदृशमहमावह इति हा ।
गजकच्छपजनितश्रम विमलीकुरु सुमतिं
हर शंकर शिव शंकर हर मॆ हर दुरितम् ॥ ५ ॥ 

त्वयि तिष्ठति सकलस्थितिकरुणात्मनि हृदयॆ
वसुमार्गणकृपणॆक्षणमनसा शिव विमुखम् ।
अकृताह्निकमसुपॊषकमवताद् गिरिसुतया
हर शंकर शिव शंकर हर मॆ हर दुरितम् ॥ ६ ॥ 

पितरावतिसुखदाविति शिशुना कृतहृदयौ
शिवया हृतभयकॆ हृदि जनितं तव सुकृतम् ।
इति मॆ शिव हृदयं भव भवतात् तव दयया
हर शंकर शिव शंकर हर मॆ हर दुरितम् ॥ ७ ॥ 

शरणागतभरणाश्रितकरुणामृतजलधॆ
शरणं तव चरणौ शिव मम संसृतिवसतॆः ।
परिचिन्मय जगदामयभिषजॆ नतिरवतात्
हर शंकर शिव शंकर हर मॆ हर दुरितम् ॥ ८ ॥ 

विविधाधिभिरतिभीतिभिरकृताधिकसुकृतं
शतकॊटिषु नरकादिषु हतपातकविवशम् ।
मृड मामव सुकृती भव शिवया सह कृपया
हर शंकर शिव शंकर हर मॆ हर दुरितम् ॥ ९ ॥ 

कलिनाशन गरलाशन कमलासनविनुत
कमलापतिनयनार्चितकरुणाकृतिचरण ।
करुणाकर मुनिसॆवित भवसागरहरण
हर शंकर शिव शंकर हर मॆ हर दुरितम् ॥ १० ॥ 

शिवषडक्षरीस्तॊत्रम्



ऒंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति यॊगिनः ।
कामदं मॊक्षदं तस्मात् ऒंकाराय नमॊ नमः ॥ १ ॥

नमन्ति मुनयः सर्वॆ नमन्त्यप्सरसां गणाः।
नरा नमन्ति दॆवॆशं नकाराय नमो नमः ॥ २ ॥

महत्तत्वं महादॆवं महाज्ञानप्रदं परम् ।
महापापहरं दॆवं मकाराय नमॊ नमः ॥ ३ ॥

शिवं शान्तं जगन्नाथं लॊकानुग्रहकारकम् ।
शिवमॆकपदं नित्यं शिकाराय नमॊ नमः ॥ ४ ॥

वाहनं वृषभॊ यस्य वासुकिः कण्ठभूषणम् ।
वामॆ शक्तिधरॊ दॆवः वकाराय नमॊ नमः ॥ ५ ॥

यत्र यत्र स्थितॊ दॆवः सर्वव्यापी महॆश्वरः ।
यॊ गुरुः सर्वदॆवानां यकाराय नमॊ नमः ॥ ६ ॥

षडक्षरमिदं स्तॊत्रं यः पठॆच्छिवसन्निधौ ।
तस्य मृत्युभयं नास्ति शिवॆन सह मॊदतॆ ॥ ७ ॥