Search This Blog

Wednesday, June 8, 2011

कनकधारास्तॊत्रम (श्रीशंकराचार्यविरचितम्)







अङ्गं
हरॆः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनॆव मुकुलाभरणं तमालम्
अंगीकृताखिलविभूतिरपांगलीला
मांगल्यदास्तु मम मंगलदॆवतायाः

मुग्धा मुहुर्विदधती वदनॆ मुरारॆः
प्रॆमत्रपाप्रणिहितानि गतागतानि
माला दृशॊर्मधुकरीव महॊत्पलॆ या
सा मे श्रियं दिशतु सागरसंभवायाः

आमीलिताक्षमधिगम्य मुदा मुकुन्दं
आनन्दकन्दमनिमॆषमनंगतन्त्रम्
आकॆकरस्थितकनीनिकपक्ष्मनॆत्रं
भूत्यै भवॆन्मम भुजंगशयांगनायाः

बाह्वन्तरॆ मधुजितः श्रितकौस्तुभॆ या
हारावलीव हरिनीलमयी विभाति
कामप्रदा भगवतॊऽपि कटाक्षमाला
कल्याणमावहतु मॆ कमलालयायाः

कालाम्बुदालिललितॊरसि कैटभारॆः
धाराधरे स्फुरति या तटिदङ्गनॆव
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मॆ दिशतु भार्गवनन्दनायाः

प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
माङ्गल्यभाजि मधुमाथिनि मन्मथॆन
मयापतॆत्तदिह मन्थरमीक्षणार्धं
मन्दालसं मकरालयकन्यकायाः

विश्वामरॆन्द्रपदविभ्रमदानदक्षं
आनन्दहॆतुरधिकं मुरविद्विषॊऽपि
ईषन्निषीदतु मयि क्षणमीक्षणार्धं
इन्दीवरॊदरसहॊदरमिन्दिरायाः

इष्टा विशिष्टमतयॊऽपि यया दयार्द्र-
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्तॆ
दृष्टिः प्रहृष्टकमलॊदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः

दद्याद्दयानुपवनॊ द्रविणाम्बुधारां
अस्मिन्नकिञ्चनविहंगशिशौ विषण्णॆ
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः

गीर्दॆवतॆति गरुडध्वजसुन्दरीति
शाकंभरीति शशिशॆखरवल्लभॆति
सृष्टिस्थितिप्रलयकॆलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरॊस्तरुण्यै १०

श्रुत्यै नमॊऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमॊऽस्तु रमणीयगुणार्णवायै
शक्त्यै नमॊऽस्तु शतपत्रनिकॆतनायै
पुष्ट्यै नमॊऽस्तु पुरुषॊत्तमवल्लभायै ११

नमॊऽस्तु नालीकनिभाननायै
नमॊऽस्तु दुग्धॊदधिजन्मभूम्यै
नमॊऽस्तु सॊमामृतसॊदरायै
नमॊऽस्तु नारायणवल्लभायै १२

नमॊऽस्तु हॆमाम्बुजपीठिकायै
नमॊऽस्तु भूमण्डलनायिकायै
नमॊऽस्तु दॆवादिदयापरायै
नमॊऽस्तु शाङ्र्गायुधवल्लभायै १३

नमॊऽस्तु दॆव्यै भृगुनन्दनायै
नमॊऽस्तु विष्णॊरुरसि स्थितायै
नमॊऽस्तु लक्ष्म्यै कमलालयायै
नमॊऽस्तु दामॊदरवल्लभायै १४


नमॊऽस्तु कान्त्यै कमलॆक्षणायै
नमॊऽस्तु भूत्यै भुवनप्रसूत्यै
नमॊऽस्तु दॆवादिभिरर्चितायै
नमॊऽस्तु नन्दात्मजवल्लभायै १५

सम्पत्कराणि सकलॆन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरॊरुहाक्षि
त्वद्वन्दनानि दुरिताहरणॊद्यतानि
मामॆव मातरनिशं कलयन्तु मान्यॆ १६

यत्कटाक्षसमुपासनाविधिः
सॆवकस्यसकलार्थसंपदः
सन्तनॊतिवचनाङ्गमानसैः
त्वां मुरारि हृदयॆश्वरीं भजॆ १७

सरसिजनिलयॆ सरॊजहस्तॆ
धवलतरांशुकगन्धमाल्यशॊभॆ
भगवति हरिवल्लभॆ मनॊज्ञॆ
त्रिभुवनभूतिकरि प्रसीद मह्यम् १८

दिग्घस्तिभिः कनककुम्भमुखावसृष्ट-
स्वर्वाहिनीविमलचारुजलाप्लुताङ्गीम्
प्रातर्नमामि जगतां जननीमशॆष-
लॊकाधिनाथगृहिणीममृताब्धिपुत्रीम् १९

कमलॆ कमलाक्षवल्लभॆ त्वं
करुणापूरतरङ्गितैरपाङ्गैः
अवलॊकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः २०

स्तुवन्ति यॆ स्तुतिभिरमीभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम्
गुणाधिका गुरुतरभाग्यभागिनः
भवन्ति तॆ भुवि बुधभाविताशयाः २१