Search This Blog

Tuesday, June 7, 2011

श्री दक्षिणामूर्त्यष्टकम् (श्री शंकराचार्यकृतम्)

दक्षिणा मूर्तये नमः

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवॊद्भूतं यथा निद्रया
यः साक्षात्कुरुतॆ प्रबॊधसमयॆ स्वात्मानमॆवाद्वयं
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ

बीजस्यान्तरिवाङ्कुरॊ जगदिदं प्राङ्निर्विकल्पं पुनर्-
मायाकल्पितदॆशकालकलनावैचित्र्यचित्रीकृतम्
मायावीव विजृंभयत्यपि महायॊगीव यः स्वॆच्छया
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासतॆ
साक्षात्तत्त्वमसीति वॆदवचसा यॊ बॊधयत्याश्रितान्
यत्साक्षात्करणाद्भवॆन्नपुनरावृत्तिर्भवाम्भॊनिधौ
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ


नानाच्छिद्रघटॊदरस्थितमहादीपप्रभाभासुरं
ज्ञानं यस्यतु चक्षुरादिकरणद्वारा बहिः स्पन्दतॆ
जानामीति तमॆव भान्तमनुभात्यॆतत्समस्तं जगत्
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ

दॆहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं शून्यं विदुः
स्त्रीबालान्धजडॊपमास्त्वहमिति भ्रान्ता भृशं वादिनः
मायाशक्तिविलासकल्पितमहाव्यामॊहसंहारिणॆ
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ

राहुग्रस्तदिवाकरॆन्दुसदृशॊ मायासमाच्छादनात्
सन्मात्रः करणोपसंहरणतॊ यॊऽभूत्सुषुप्तः पुमान्
प्रागस्वाप्समिति प्रबॊधसमयॆ यः प्रत्यभिज्ञायतॆ
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा
स्वात्मानं प्रकटीकरॊति भजतां यॊ मुद्रया भद्रया
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ

विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भॆदतः
स्वप्नॆ जाग्रति वा एष पुरुषॊ माया परिभ्रामितः
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ

भूरंभांस्यनलॊऽनिलॊऽम्बरमहर्नाथॊ हिमांशुः पुमा-
नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम्
नान्यत् किञ्चन विद्यतॆ विमृशतां यस्मात् परस्माद्विभॊः
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ


सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे
तॆनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात्
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्यॆतत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् १०

श्री दक्षिणामूर्तिस्तॊत्रम् (श्री शंकराचार्यविरचितम्)





उपासकानां यदुपासनीयं
उपात्तवासं वटशाखिमूलॆ ।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्या
जागर्त्तु चित्तॆ मम बॊधरूपम् ॥ १ ॥

अद्राक्षमक्षीणदयानिधानं
आचार्यमाद्यं वटमूलभागॆ ।
मौनॆन मन्दस्मितभूषितॆन
महर्षिलॊकस्य तमॊ नुदन्तम् ॥ २ ॥

विद्राविताशॆषतमॊगुणॆन
मुद्राविशॆषॆण मुहुर्मुनीनाम् ।
निरस्यमायां दयया विधत्तॆ
दॆवॊ महांस्तत्वमसीतिबॊधम् ॥ ३ ॥


अपारकारुण्यसुधातरङ्गैः
अपाङ्गपातैरवलॊकयन्तम् ।
कठॊरसंसारनिदाघतप्तान्
मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४ ॥

ममाद्य दॆवॊ वटमूलवासी
कृपाविशॆषात् कृतसन्निधानः ।
ऒंकाररूपामुपदिश्य विद्याम्
आविद्यकध्वान्तमपाकरॊतु ॥ ५ ॥

कलाभिरिन्दॊरिवकल्पिताङ्गं
मुक्ताकलापैरिव बद्धमूर्तिम् ।
आलॊकयॆ दॆशिकमप्रमॆयं
अनाद्यविद्यातिमिरप्रभातम् ॥ ६ ॥

स्वदक्षजानुस्थितवामपादं
पादॊदरालङ्कृतयॊगपट्टम् ।
अपस्मृतॆराहितपादमङ्गॆ
प्रणौमि दॆवं प्रणिधानवन्तम् ॥ ७ ॥

तत्वार्थमन्तॆवसतामृषीणां
युवाऽपि यः सन्नुपदॆष्टुमीष्टॆ ।
प्रणौमि तं प्राक्तनपुण्यजालैः
आचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥

एकॆन मुद्रां परशुं करॆण
करॆण चान्यॆन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्तात्
आचार्यचूडामणिराविरस्तु ॥ ९ ॥


आलॆपवन्तं मदनाङ्गभूत्या
शार्दूलकृत्त्या परिधानवन्तम् ।
आलॊकये कञ्चन दॆशिकॆन्द्रं
अज्ञानवाराकरबाडवाग्निम् ॥ १० ॥

चारुस्मितं सॊमकलावतंसं
वीणाधरं व्यक्तजटाकलापम् ।
उपासतॆ कॆचन यॊगिनस्त्वां
उपात्तनादानुभवप्रमॊदम् ॥ ११ ॥

उपासतॆ यं मुनयः शुकाद्याः
निराशिषॊ निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं महॆशं
उपास्महॆ मॊहमहार्तिशान्त्यै ॥ १२ ॥

कान्त्या निन्दितकुन्दकन्दलवपुः न्यग्रॊधमूलॆ वसन्
कारुण्यामृतवारिभिर्मुनिजनान् संभावयन् वीक्षितैः ।
मॊहध्वान्तविभॆदनं विरचयन् बॊधेन तत्तादृशा
दॆवस्तत्वमसीति बॊधयतु मां मुद्रावता पाणिना ॥ १३ ॥

अगौरगात्रैरललाटनॆत्रैः अशान्तवॆषैरभुजंगभूषैः ।
अबॊधमुद्रैरनपास्तनिद्रैः अपूरकामैरमरैरलं नः ॥ १४ ॥

दैवतानि कति सन्ति चावनौ नैव तानि मनसॊ मतानि मॆ ।
दीक्षितं जडधियामनुग्रहॆ दक्षिणाभिमुखमॆव दैवतम ॥ १५ ॥

मुदिताय मुग्द्धशशिनाऽवतंसिनॆ
भसितावलॆपरमणीयमूर्तयॆ ।
जगदिन्द्रजालरचनापटीयसॆ
महसॆ नमॊऽस्तु वटमूलवासिनॆ ॥ १६ ॥

व्यालंबिनीभिः परितॊ जटाभिः
कलावशॆषॆण कलाधरॆण ।
स्फुरल्ललाटॆन मुखॆन्दुना च
प्रकाशसॆ चॆतसि निर्मलानाम् ॥ १७ ॥

उपासकानां त्वमुमासहायः
पूर्णेन्दुभावं प्रकटीकरॊषि ।
यदद्य तॆ दर्शनमात्रतॊ मॆ
द्रवत्यहॊ मानसचन्द्रकान्तः ॥ १८ ॥

यस्तॆ प्रसन्नामनुसंदधानॊ
मूर्तिं मुदा मुग्द्धशशाङ्कमौलॆः ।
एश्वर्यमायुर्लभतॆ च विद्यां
अन्तॆ च वॆदान्तमहारहस्यम् ॥ १९ ॥