Search This Blog

Thursday, December 26, 2013

प्रेम प्रेम सब कोउ कहत, प्रेम न जानत कोइ।
जो जन जानै प्रेम तो, मरै जगत क्यों रोइ॥

મીરાંબાઈ




        મને લાગી કટારી પ્રેમની

પ્રેમની, પ્રેમની, પ્રેમની રે;

    મુને લાગી કટારી પ્રેમની.

જળ જમુનાનાં ભરવા ગયા'તાં;
હતી ગાગર માથે હેમની રે;

    મુને લાગી કટારી પ્રેમની.

કાચે તે તાંતણે હરિજીએ બાંધી;
જેમ ખેંચે તેમ તેમની રે;

    મુને લાગી કટારી પ્રેમની.

બાઈ મીરાં કહે પ્રભુ ગિરધર નાગર;
શામળી સૂરત શુભ એમની રે;

    મુને લાગી કટારી પ્રેમની.

श्रीस्तुतिः (श्री वॆदान्तदॆशिकविरचितम्)



मानातीतप्रथितविभवां मङ्गलं मङ्गलानां
वक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या ।
प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां
श्रॆयॊमूर्तिं श्रियमशरणः त्वां शरण्यां प्रपद्यॆ ॥ १ ॥

आविर्भावः कलशजलधावध्वरॆ वापि यस्याः
स्थानं यस्याः सरसिजवनं विष्णुवक्षस्थलं वा ।
भूमा यस्या भुवनमखिलं दॆवि दिव्यं पदं वा
स्तॊकप्रज्ञैरनवधिगुणा स्तूयसॆ सा कथं त्वम् ॥ २ ॥

स्तॊतव्यत्वं दिशति भवती दॆहिभिः स्तूयमाना
तामॆव त्वामनितरगतिः स्तॊतुमाशंसमानः।
सिद्धारम्भः सकलभुवनश्लाघनीयॊ भवॆयं
सॆवापॆक्षा तव चरणयॊः श्रॆयसॆ कस्य न स्यात् ॥ ३ ॥

यत् सङ्कल्पात् भवति कमलॆ यत्र दॆहिन्यमीषां
जन्मस्थॆमप्रलयरचना जङ्गमाजङ्गमानाम् ।
तत् कल्याणं किमपि यमिनामॆकलक्ष्यं समाधौ
पूर्णं तॆजः स्फुरति भवती पादलाक्षारसाङ्कम् ॥ ४ ॥

निष्प्रत्यूहप्रणयघटितं दॆवि नित्यानपायं
विष्णुस्त्वं चॆत्यनवधिगुणं द्वन्द्वमन्यॊन्यलक्ष्यम् ।
शॆषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां
संपद्यन्तॆ विहरणविधौ यस्य शय्याविशॆषाः ॥ ५ ॥

उद्दॆश्यत्वं जननि भजतॊरुझितॊपाधिगन्धं
प्रत्यग्रूपॆ हविषि युवयॊरॆकशॆषित्वयॊगात् ।
पद्मॆ पत्युस्तव च निगमैर्नित्यमन्विष्यमाणॊ
नावच्छॆदं भजति महिमा नर्तयन् मानसं नः ॥ ६ ॥

पश्यन्तीषु श्रुतिषु परितः सूरिबृन्दॆनसार्धं
मध्यॆकृत्य त्रिगुणफलकं निर्मितस्थानभॆदम् ।
विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ
ब्रह्मॆशाद्या दधति युवयॊरक्षशार प्रचारम् ॥ ७ ॥

अस्यॆशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरॆति ।
यन्नामानि श्रुतिपरिपणान्यॆवमावर्तयन्तॊ
नावर्तन्तॆ दुरितपवनप्रॆरितॆ जन्मचक्रॆ ॥ ८ ॥

त्वामॆवाहुः कतिचिदपरॆ त्वत्प्रियं लॊकनाथं
किंतैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः ।
त्वत्‌संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां
भावारूढौ भगवति युवां दैवतं दंपती नः ॥ ९ ॥


आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णॊः
आचख्युस्त्वां प्रियसहचरीमैकमत्यॊपपन्नां ।
प्रादुर्भावैरपि समतनुः प्राक्तमन्वीयसॆ  त्वम्
दूरॆक्षिप्तैरिव मधुरता दुग्धराशॆस्तरङ्गैः ॥ १० ॥

धत्तॆ शॊभां हरिमरकतॆ तावकीमूर्तिराद्या
तन्वी तुङ्गस्तनभरनता तप्तजांबूनदाभा ।
यस्यां गच्छत्युदयविलयैर्नित्यमानन्दसिन्धा-
विच्छावॆगॊल्लसितलहरी विभ्रमं व्यक्तयस्तॆ ॥ ११ ॥

आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः
यद्भ्रूभङ्गात् कुसुमधनुषः किङ्करॊ मॆरुधन्वा ।
यस्यां नित्यं नयनशतकैरॆकलक्ष्यॊ महॆन्द्रः
पद्मॆ तासां परिणतिरसौ भावलॆशैस्त्वदीयैः ॥ १२ ॥

अग्रॆ भर्तुः सरसिजमयॆ भद्रपीठॆ निषण्णां
अम्भॊराशॆरधिगतसुधासंप्लवादुत्थितां त्वाम् ।
पुष्पासार स्थगितभुवनैः पुष्कलावर्तकाद्यैः
कॢप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजॆन्द्राः ॥ १३ ॥


आलॊक्य त्वाममृतसहजॆ विष्णुवक्षस्थलस्थाम्
शापाक्रान्ताः शरणमगमन् सावरॊधाः सुरॆन्द्राः ।
लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत् कटाक्षैः
सर्वाकारस्थिरसमुदयां संपदं निर्विशन्ति ॥ १४ ॥

आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहैः
अम्भॊजानामुषसिमिषतामन्तरंगैरपांगैः ।
यस्यां यस्यां दिशि विहरतॆ दॆवि दृष्टिस्त्वदीया
तस्यां तस्यामहमहमिकां तन्वतॆ संपदॊघाः ॥ १५ ॥

यॊगारम्भत्वरितमनसॊ युष्मदैकान्त्ययुक्तं
धर्मं प्राप्तुं प्रथममिह यॆ धारयन्तॆ धनायाम् ।
तॆषां भूमॆर्धनपतिगृहादंबरादंबुधॆर्वा
धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥ १६ ॥

श्रॆयस्कामा कमलनिलयॆ चित्रमाम्नायवाचां
चूडापीडं तव पदयुगं चॆतसा धारयन्तः ।
छत्रछाया सुभगशिरसश्चामरस्मॆरपार्श्वाः
श्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ॥ १७ ॥

ऊरीकर्तुं कुशलमखिलं जॆतुमादीनरातीन्
दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् ।
अंब स्तंबावधिक जननग्रामसीमान्तरॆखां
आलंबन्तॆ विमलमनसॊ विष्णुकान्तॆ दयां तॆ  ॥ १८ ॥

जाताकाङ्क्षा जननि युवयॊरॆकसॆवाधिकारॆ
मायालीढं विभवमखिलं मन्यमानास्तृणाय ।
प्रीत्यै विष्णॊस्तवच कृतिनः प्रीतिमन्तॊ भजन्तॆ
वॆलाभङ्गप्रशमनफलं वैदिकं धर्मसॆतुम् ॥ १९ ॥

सॆवॆ दॆवि त्रिदशमहिलामौलिमालार्चितं तॆ
सिद्धिक्षॆत्रं शमितविपदां संपदां पादपद्मम् ।
यस्मिन्नीषन्नमितशिरसॊ  यापयित्वा शरीरं
वर्तिष्यन्तॆ वितमसि पदॆ वासुदॆवस्य धन्याः ॥ २० ॥

सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैः
अंब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः ।
घर्मॆ तापत्रयविरचितॆ गाढतप्तं क्षणं मां
आकिञ्चन्यग्लपितमनघैरार्द्रयॆथाः कटाक्षैः ॥ २१ ॥

संपद्यन्तॆ भवभयतमॊभानवस्त्वत् प्रसादात्
भावाः सर्वॆ भगवति हरौ भक्तिमुद्वॆलयन्तः ।
याचॆ किं त्वामहमिह यतः शीतलॊदारशीला
भूयॊ भूयॊ दिशसि महतां मङ्गलानां प्रबन्धान् ॥ २२ ॥

माता दॆवि त्वमसि भगवान् वासुदॆवः पिता मॆ
जातः सॊहं जननि युवयॊरॆकलक्ष्यं दयायाः ।
दत्तॊ युष्मत् परिजनतया दॆशिकैरप्यतस्त्वं
किं तॆ भूयः प्रियमिति किल स्मॆरवक्त्रा विभासि ॥ २३ ॥

कल्याणानामविकलनिधिः कापि कारुण्यसीमा
नित्यामॊदा निगमवचसां मौलिमन्दारमाला ।
संपद्दिव्या मधुविजयिनः सन्निधत्तां सदा मॆ
सैषा दॆवी सकलभुवनप्रार्थना कामधॆनुः ॥ २४ ॥

उपचितगुरुभक्तॆरुत्थितं वॆङ्कटॆशात्
कलिकलुषनिवृत्यै कल्प्यमानं प्रजानाम् ।
सरसिजनिलयायाः स्तॊत्रमॆतत् पठन्तः
सकलकुशलसीमाः सर्वभौमा भवन्ति ॥

श्रीविष्णुशतनामस्तॊत्रम्



वासुदॆवं हृषीकॆशं वामनं जलशायिनम् ।
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ॥ १ ॥

वराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् ।
अव्यक्तं शाश्वतं विष्णुं अनन्तमजमव्ययम् ॥ २ ॥

नारायणं गदाध्यक्षं गॊविन्दं कीर्तिभाजनम् ।
गॊवर्द्धनॊद्धरं दॆवं भूधरं भुवनॆश्वरं ॥ ३ ॥

वॆत्तारं यज्ञपुरुषं यज्ञॆशं यज्ञवाहकम् ।
चक्रपाणिं गदापाणिं शङ्खपाणिं नरॊत्तमम् ॥ ४ ॥

वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् ।
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दिकॆश्वरं ॥ ५ ॥

रामं रामं हयग्रीवं भीमं रौद्रं भवॊद्भवम् ।
श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् ॥ ६ ॥

दामॊदरं दमॊपॆतं कॆशवं कॆशिसूदनम् ।
वरॆण्यं वरदं विष्णुं आनन्दं वसुदॆवजम् ॥ ७ ॥

हिरण्यरॆतसं दीप्तं पुराणं पुरुषॊत्तमम् ।
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥ ८ ॥

हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् ।
मॆघश्यामं चतुर्बाहुं कुशलं कमलॆक्षणम् ॥ ९ ॥

ज्यॊतिरूपमरूपं च स्वरूपं रूपसंस्थितम् ।
सर्वज्ञं सर्वरूपस्थं सर्वॆशं सर्वतॊमुखम् ॥ १० ॥

ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम् ।
यॊगीशं यॊगनिष्णातं यॊगिनं यॊगरूपिणम् ॥ ११ ॥

ईश्वरं सर्वभूतानां वन्दॆ भूतमयं प्रभुम् ।
इति नामशतं दिव्यं वैष्णवं खलु पापहम् ॥ १२ ॥

व्यासॆन कथितं पूर्वं सर्वपापप्रणाशनम् ।
यः पठेत् प्रातरुत्थाय स भवेत् वैष्णवॊ नरः
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् ॥ १३ ॥

વિદૂરનીતિ

લક્ષ્મી અતિગુણવાન પાસે રહેતી નથી તેમ અતિશય ગુણહીનની પાસે પણ રહેતી નથી.