Search This Blog

Saturday, January 27, 2018

गुरुस्तोत्रम्

_*गुरुस्तोत्रम्*_
*अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।*
*तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १॥*

*अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।*
*चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २॥*

*गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।* *गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ३॥*

*स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् ।* 
*तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ४॥*

*चिन्मयं व्यापि यत्सर्वं त्रैलोक्यं सचराचरम् ।*
*तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५॥*

*सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः । वेदान्ताम्बुजसूर्यो यः तस्मै श्रीगुरवे नमः ॥ ६॥*

*चैतन्यश्शाश्वतश्शान्तः व्योमातीतो निरञ्जनः ।*
*बिन्दुनादकलातीतः तस्मै श्रीगुरवे नमः ॥ ७॥*

*ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः । भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ ८॥*

*अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने । आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ ९॥*

*शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदः ।*
*गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ १०॥*

*न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः।*
*तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः ॥ ११॥*

*मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः ।*
*मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १२॥*

*गुरुरादिरनादिश्च गुरुः परमदैवतम् ।*
*गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥ १३॥*

*त्वमेव माता च पिता त्वमेव*
*त्वमेव बन्धुश्च सखा त्वमेव ।*
*त्वमेव विद्या द्रविणं त्वमेव ।*
*त्वमेव सर्वं मम देवदेव ॥ १४॥*

*🙏🏻॥ इति श्रीगुरुस्तोत्रम् ॥🙏🏻*