Search This Blog

Saturday, May 21, 2011

प्रज्ञा विवर्धन कार्तिकेय स्तोत्रं PRAGYAA VIVARDHANA KAARTIKEYA STOTRAM





श्री गणेशाय नमः . श्री स्कन्द उवाच
योगीश्वरो महासेनः कार्तिकेयोऽग्निनंदनः |
स्कन्दः कुमारः सेनानी स्वामी शंकरसम्भवः ||
गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः |
तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः ||
शब्दब्रह्म समुद्रश्च सिद्धः सारस्वतो गुहः |
सनत्कुमारो भगवान् भोग मोक्ष फलप्रदः ||
शरजन्मा गुणादीशः पूर्वजो मुक्ति मार्गकृत् |
सर्वागम प्रणेता च वाञ्छितार्थ प्रदर्शनः ||
अष्टाविंशति नामानि मदीयानीति यः पठेत् |
प्रत्यूषम् श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ||
महामन्त्रमया नीति मम नामानुकीर्तनम् |
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ||

..|| इति श्री रुद्रयामले प्रज्ञाविवर्धनाख्यम् श्रीमत्कार्तिकेयस्तोत्रम् संपूर्णम् ||..

No comments:

Post a Comment