श्लोक संग्रह: (सुभाषितानि)
1- धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मो न हन्तव्यो मानो धर्मो हतो वधीत् ।।
2- जातेSपि भरते देशे, यो न जानाति संस्कृतम् ।
धर्मञ्च संस्कृतिञ्चैव, स न जानाति भारतम् ।।
3- अनित्यानि शरीराणि विभवो नैव शाश्वतः ।
नित्यं सन्निहितः मृत्यु: कर्तव्यं धर्म संग्रहः ।।
4- विकृतिं नैव गच्छन्ति संगदोषेण साधवः ।
आवेष्टितं महासर्पैश्चंदनं न विषायते ।।
5- धृतिः क्षमा दमोSस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ।।
6- हयग्रीव हयग्रीव हयग्रीवेति यो वदेत् ।
तस्य निस्सरते वाणी जन्हुकन्या प्रवाहवत् ।।
7- रक्तः श्वेतो हरितः पाटलश्च पाण्डुश्चित्रः श्यामलाभः पिशङ्गः ।
पिताभः स्यात्कुर्बरो बभ्रुकश्च कृष्णश्चेति द्वादशर्क्षाणि मेषात् ।।
8- सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा ।
शांतिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः ।।
9- आर्ता देवान् नमस्यन्ति, तपः कुर्वन्ति रोगिणः ।
निर्धनाः दानमिच्छन्ति, वृद्धा नारी पतिव्रता ।।
10- अवश्यमेव भोक्तव्यं कृतंकर्म शुभाशुभम् ।
नाभुक्तेक्षीयते कर्म जन्मकोटि शतैरपि ।।
11- ना गुणी गुणीनां वेत्ति गुणी गुणीषू मत्सरी ।
गुणी च गुणरागी विरलः सरलो जनः ।।
12- यथा चित्तं तथा वाचः यथा वाचस्तथा क्रिया: ।
चित्ते वाचि क्रियायान्च साधुनामेकरूपता ।।
13- ज्ञानं विना मुक्तिपदं लभ्यते गुरुभक्तितः ।
गुरोः समानतो नान्यत् साधनं गुरुमार्गिणाम् ।।
14- प्रारभ्यते न खलु विघ्न भयेन नीचै:
आरभ्यविघ्नविहिताः विरमन्ति मध्या: ।
विघ्नै पुनः पुनरपि प्रतिहन्यमानाः
प्रारभ्य चोत्तमजनाः न परित्यजन्ति ।।
15- सुलभाः पुरुषा: राजन् सततं प्रियवादिनः ।
अप्रियस्य च सत्यस्य वक्ता श्रोता च दुर्लभः ।।
16- जलबिंदुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।।
17- अपूज्या यत्र पूज्यन्ते पूज्यपूजाव्यतिक्रमः ।
त्रीणि तत्र प्रजायन्ते दुर्भिक्षं मरणं भयम् ।।
18- निन्दक नियरे राखिये आँगन कुटी छवाय ।
बिन पानी, साबुन बिना, निर्मल करे सुभाय ।।
19- न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् ।
नेन्धनेन जयेद्वन्हिं न पानेन सुरां जयेत् ।।
20- त्यजन्ति मित्राणि धनैर्विहीनं
पुत्राश्च दाराश्च सज्जनाश्च ।
तमर्थवन्तं पुनराश्रयन्ति
अर्थो हि लोके मनुषस्य बन्धु: ।।
21- अभिमानो धनंयेषां चिरजीवन्ति ते जनाः ।
अभिमानविहीनानां किं धनेन किमायुषा ।।
22- चन्दनं शीतलं लोके चंदनादपि चंद्रमाः ।
चंद्रचंदनयोर्मध्ये शीतला साधुसंगतः ।।
23- वृथा वृष्टि: समुद्रेषु , वृथा तृप्तेषु भोजनम् ।
वृथा दानं धनाढ्येषु ,वृथा दीपो दिवाSपि च ।।
24- क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी ।
विद्या कामदुघा धेनुः सन्तोषो नन्दनं वनम् ।।
25- एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।।
26- अति तृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् ।।
27. श्रुतिस्मृति ममैवाज्ञे यस्ते उल्लंघ्य वर्तते ।
आज्ञोच्छेदी मम द्रोही मद्भक्तोSपि न विद्यते ।।
28- एकादश्यां विशेषेण कर्तव्यं कार्यमद्वयम् ।
रात्रौ जागरणं कार्यं दिवा हरिकीर्तनम् ।।
29- सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः ।
सर्पो दशति कालेन दुर्जनस्तु पदे पदे ।।
30- आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रं अक्रियमाणस्य कालः पिबति तद्रसम् ।।
31- सुशीलो मातृ पुण्येन पितृ पुण्येन चातुरः ।
औदार्यं वंश पुण्येन आत्म पुण्येन भाग्यवान् ।।
32- बुद्धिः प्रभावः तेजश्च सत्वमुत्थानमेव च ।
व्यवसायश्च यस्यास्ति तस्य वृत्तिभयं कुतः ।।
33- सर्वं परवशं दुःखं सर्वं आत्मवशं सुखम् ।
एतद्विद्यात् समासेन लक्षणं सुखदुःखयोः ।।
34- कृत्वा विहारं वहिरेव नित्यं
सम्पूर्ण वर्षं बत तेन नीतम् ।
नोद्घाटितं पुस्तकमेक पृष्ठं
स किं लिखेदुत्तरपुस्तिकायाम् ।।
35- आयुर्कर्मञ्च वित्तं च विद्या निधन मेव च ।
पंचैतानि सृज्यन्ते गर्भस्तस्यैव देहिनाम् ।।
36- अहिल्या कुन्ती तारा द्रौपदी मन्दोदरी तथा ।
पञ्चकन्या स्मरेन्नित्यं सर्वपाप क्षयं भवेत् ।।
37- अत्र सर्वासु विद्यासु कारणं गुरुरीतितः ।
यथाशिवस्तथैवायं पूजनीयं प्रयत्नतः ।।
39- अग्रतश्चतुरो वेदान्पृष्ठतस्सशरन्धनुः ।
इदम्ब्राह्म मिदंङ्क्षात्रं शापादपि शरादपि ।।
40- गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः ।
अलुब्धै र्दानशीलैश्च सप्तभि र्धार्यते मही ।।
41- पुण्यस्य फलमिच्छन्ति पुण्यन्नेच्छन्ति मानवाः।
न पापफल मिच्छन्ति पापं कुर्वन्ति यत्नतः ।।
42- अष्टादश पुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ।।
43- अयं निजःपरो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ।।
44- भूतानां प्राणिनःश्रेष्ठः प्राणिनां बुद्धिजीविनः।
बुद्धिमत्सु नरःश्रेष्ठः नरेषु ब्राह्मणःस्मृतः ।।
45- असारे खलु संसारे सारमेतत् चतुष्टयम् ।
काश्यांवासः सतांसंग गँगाम्भः शिव दर्शनम् ।।
46- धूम्रपानरते विप्रे दानं कुर्वन्ति ये नराः ।
ते नरा नरकं यान्ति ब्राह्मणा ग्रामशूकराः ।।
47- न अन्नोदकसमं दानं न तिथिद्वादशीसमा ।
न गायत्र्या: समो मन्त्रो न मातुः परदेवतम् ।।
48- न जले मार्जनं संध्या न मंत्रोच्चारणादिभिः ।
सन्धियते परब्रह्म सा संध्या सद्भिरुच्यते ।।
49- अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ।
दशवर्षा भवेत्कन्या तत ऊर्ध्वं रजस्वला ।।
50- माता चैव पिता तस्य ज्येष्ठो भ्राता तथैव च ।
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ।।
51- न स्नानमाचरेद् भुक्त्वा नातुरो न महानिशि ।
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ।।
52- गुरुणां पुरतो राज्ञो न चासीत महासने ।
प्रौढ़पादो न तद्वाक्यं हेतुभिर्विकृतिं नयेत् ।।
53- आयुरारोग्यमैश्वर्यं विद्यालाभः सुखञ्जयः।
कीर्तिर्मनोरथश्चास्तु नूतनवर्षं शुभं तव ।।
54- शिष्याणां मोक्षदानाय लीलया देहधारिणे।
सदेहेऽपि विदेहाय तस्मै श्रीगुरवे नमः।।
55- एकवर्णं यथा दुग्धं भिन्नवर्णासु धेनुषु ।
तथैव धर्मवैचित्र्यं तत्त्वमेकं परं स्मॄतम् ॥
56- नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम् ।
व्यवसायद्वितीयानां नात्यपारो महोदधि:।।
57- सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा।
शान्ति: पत्नी क्षमा पुत्र: षडेते मम बान्धवा:॥
58- सम्पूर्णकुम्भो न करोति शब्दं ,
अर्धोघटो घोषमुपैति नूनम् ।
विद्वान् कुलीनो न करोति गर्व ,
गुणैर्विहीना बहु जल्पयन्ति।।
59- प्रदोषे दीपकश्चंद्र: प्रभाते दीपको रवि:।
त्रैलोक्ये दीपको धर्म: सुपुत्र: कुलदीपक:॥
60- न हि जन्मनि ज्येष्ठत्वं गुणैर्ज्येष्ठत्वमुच्यते।
गुणाद् गुरूत्वमायाति दुग्धं दधि घृतं यथा||
61- जलबिन्दु निपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।।
62- विप्रो वृक्षस्तस्य मूलं च सन्ध्या
वेदाः शाखा धर्म कर्माणि पत्रम्।
तस्मात् मूलं यत्नतो रक्षणीयम्
छिन्ने मुले नैव शाखा न पत्रम्।।
63- सर्वे सर्वं न जानाति सर्वज्ञों नास्ति कश्चन ।
नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ।।
64- जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते।
विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते॥
(अत्रिसंहिता, श्लोकः १४०)
65- स्नाने दाने जपे होमे संध्याया देवतार्चने ।
शिखाग्रन्थिं विना कर्म नकुर्याद्वै कदाचन ।।
66- शौचेथ शयने संगे भोजने दन्त धावने ।
शिखामुक्तिं सदा कुर्यादित्येतन्मनुरब्रवीत् ।।
67- प्रतार्नाभौ करं कृत्वा मध्यान्हे हृदि संस्थितम् ।
सायं जपेच्च नासाग्रे ह्येष जप्यविधिः स्मृतः ।।
68- अल्पानामपि वस्तूनां संहति: कार्यसाधिका|
तॄणैर्गुणत्वमापन्नैर् बध्यन्ते मत्तदन्तिन:||
छोटी-छोटी वस्तूएँ एकत्र करने से बडा काम भी हो सकता है| तिनके-तिनके घास को जोड़कर बनायी हुर्इ डोरी से मत्त-हाथी बाँधा जा सकता है|
69- अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत्।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥
70- गणेशं ताम्रपात्रेण स्वर्णपात्रेण जगदम्बिका ।
शिवम् गवय श्रृंगेण विष्णुं शंखवादिना ।।
71- सत्येन शुध्यते वाणी मनो ज्ञानेन शुध्यति ।
गुरुशुश्रूषया काया शुध्दिरेषा सनातनी ॥
72- घटं भित्त्वा पटं छित्त्वा कृत्त्वा रासभरोहणम् ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ।।
73- नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।
विक्रमार्जित राजस्य स्वयमेव मृगेन्द्रता ।।
74- अग्निहोत्रं गृहं क्षेत्रं मित्रं भार्यां सुतं शिशुम् |
रिक्तपाणिर्न पश्येत् च राजानं देवतां गुरुम् ||
75- स जीवति गुणा यस्य धर्मो यस्य स जीवति।
गुणधर्मविहीनो यो निष्फलं तस्य जीवितम्।।
76- अन्नदानं परं दानं विद्यादानमतः परम्।
अन्नेन क्षणिका तृप्ति-र्यावज्जीवं च विद्यया।।
[: [li: रिक्तपाणिर्न पश्येत् राजानं देवतां गुरुम् |
दैवज्ञं भिषजं मित्रं फलेन फलमादिशेत् ||
राजा, देव, गुरु, ज्योतिषी, वैद्य आणि मित्र यांच्याकडे रिकाम्या हाताने जाऊ नये. काही वस्तू, फळ देऊन त्याचं फळ मिळवावे.
[i: कौर्मं संकोचमास्थाय प्रहारानपि मर्षयेत् |
प्राप्ते काले च मतिमानुत्तिष्ठेत् कृष्णसर्पवत् ||
🙏🙏🙏🙏🙏
No comments:
Post a Comment