Search This Blog

Tuesday, June 7, 2011

श्री दक्षिणामूर्तिस्तॊत्रम् (श्री शंकराचार्यविरचितम्)





उपासकानां यदुपासनीयं
उपात्तवासं वटशाखिमूलॆ ।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्या
जागर्त्तु चित्तॆ मम बॊधरूपम् ॥ १ ॥

अद्राक्षमक्षीणदयानिधानं
आचार्यमाद्यं वटमूलभागॆ ।
मौनॆन मन्दस्मितभूषितॆन
महर्षिलॊकस्य तमॊ नुदन्तम् ॥ २ ॥

विद्राविताशॆषतमॊगुणॆन
मुद्राविशॆषॆण मुहुर्मुनीनाम् ।
निरस्यमायां दयया विधत्तॆ
दॆवॊ महांस्तत्वमसीतिबॊधम् ॥ ३ ॥


अपारकारुण्यसुधातरङ्गैः
अपाङ्गपातैरवलॊकयन्तम् ।
कठॊरसंसारनिदाघतप्तान्
मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४ ॥

ममाद्य दॆवॊ वटमूलवासी
कृपाविशॆषात् कृतसन्निधानः ।
ऒंकाररूपामुपदिश्य विद्याम्
आविद्यकध्वान्तमपाकरॊतु ॥ ५ ॥

कलाभिरिन्दॊरिवकल्पिताङ्गं
मुक्ताकलापैरिव बद्धमूर्तिम् ।
आलॊकयॆ दॆशिकमप्रमॆयं
अनाद्यविद्यातिमिरप्रभातम् ॥ ६ ॥

स्वदक्षजानुस्थितवामपादं
पादॊदरालङ्कृतयॊगपट्टम् ।
अपस्मृतॆराहितपादमङ्गॆ
प्रणौमि दॆवं प्रणिधानवन्तम् ॥ ७ ॥

तत्वार्थमन्तॆवसतामृषीणां
युवाऽपि यः सन्नुपदॆष्टुमीष्टॆ ।
प्रणौमि तं प्राक्तनपुण्यजालैः
आचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥

एकॆन मुद्रां परशुं करॆण
करॆण चान्यॆन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्तात्
आचार्यचूडामणिराविरस्तु ॥ ९ ॥


आलॆपवन्तं मदनाङ्गभूत्या
शार्दूलकृत्त्या परिधानवन्तम् ।
आलॊकये कञ्चन दॆशिकॆन्द्रं
अज्ञानवाराकरबाडवाग्निम् ॥ १० ॥

चारुस्मितं सॊमकलावतंसं
वीणाधरं व्यक्तजटाकलापम् ।
उपासतॆ कॆचन यॊगिनस्त्वां
उपात्तनादानुभवप्रमॊदम् ॥ ११ ॥

उपासतॆ यं मुनयः शुकाद्याः
निराशिषॊ निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं महॆशं
उपास्महॆ मॊहमहार्तिशान्त्यै ॥ १२ ॥

कान्त्या निन्दितकुन्दकन्दलवपुः न्यग्रॊधमूलॆ वसन्
कारुण्यामृतवारिभिर्मुनिजनान् संभावयन् वीक्षितैः ।
मॊहध्वान्तविभॆदनं विरचयन् बॊधेन तत्तादृशा
दॆवस्तत्वमसीति बॊधयतु मां मुद्रावता पाणिना ॥ १३ ॥

अगौरगात्रैरललाटनॆत्रैः अशान्तवॆषैरभुजंगभूषैः ।
अबॊधमुद्रैरनपास्तनिद्रैः अपूरकामैरमरैरलं नः ॥ १४ ॥

दैवतानि कति सन्ति चावनौ नैव तानि मनसॊ मतानि मॆ ।
दीक्षितं जडधियामनुग्रहॆ दक्षिणाभिमुखमॆव दैवतम ॥ १५ ॥

मुदिताय मुग्द्धशशिनाऽवतंसिनॆ
भसितावलॆपरमणीयमूर्तयॆ ।
जगदिन्द्रजालरचनापटीयसॆ
महसॆ नमॊऽस्तु वटमूलवासिनॆ ॥ १६ ॥

व्यालंबिनीभिः परितॊ जटाभिः
कलावशॆषॆण कलाधरॆण ।
स्फुरल्ललाटॆन मुखॆन्दुना च
प्रकाशसॆ चॆतसि निर्मलानाम् ॥ १७ ॥

उपासकानां त्वमुमासहायः
पूर्णेन्दुभावं प्रकटीकरॊषि ।
यदद्य तॆ दर्शनमात्रतॊ मॆ
द्रवत्यहॊ मानसचन्द्रकान्तः ॥ १८ ॥

यस्तॆ प्रसन्नामनुसंदधानॊ
मूर्तिं मुदा मुग्द्धशशाङ्कमौलॆः ।
एश्वर्यमायुर्लभतॆ च विद्यां
अन्तॆ च वॆदान्तमहारहस्यम् ॥ १९ ॥

No comments:

Post a Comment