Search This Blog

Thursday, May 19, 2011

चन्द्रशॆखराष्टकम् (मार्कण्डॆयकृतं)


. चन्द्रशॆखराष्टकम्

संसारसर्पदष्टानां जन्तूनामविवॆकिनां
चन्द्रशॆखरपादाब्जस्मरणं परमौषधम् ।
चन्द्रशॆखर चन्द्रशॆखर चन्द्रशॆखर पाहि मां
चन्द्रशॆखर चन्द्रशॆखर चन्द्रशॆखर रक्ष मां ॥ १ ॥

रत्नसानुशरासनं रजताद्रिशृङ्गनिकॆतनं
शिञ्जिनीकृतपन्नगॆश्वरमच्युताननसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ २ ॥

पंचपादपपुष्पगन्धपदाम्बुजद्वयशॊभितं
फाललॊचनजातपावकदग्द्धमन्मथविग्रहम् ।
भस्मदिग्द्धकलॆबरं भवनाशनं भवमव्ययं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ३ ॥

मत्तवारणमुख्यचर्मकृतॊत्तरीयमनॊहरं
पङ्कजासन पद्मलॊचनपूजितांघ्रिसरॊरुहम् ।
दॆवसिन्धुतरंगशीकरसिक्तशुभ्रजटाधरं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ४ ॥

कुण्डलीकृतकुण्डलीश्वरमण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनॆश्वरम ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ५ ॥

यक्षराजसखं भगाक्षहरं भुजंगविभूषणं
शैलराजसुतापरिष्कृतचारुवामकलॆबरम् ।
क्ष्वॆलनीलगलं परश्वधधारिणं मृगधारिणं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ६ ॥

भॆषजं भवरॊगिणामखिलापदामपहारिणं
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलॊचनम् ।
भुक्ति मुक्ति फलप्रदं सकलाघसंघनिबर्हणं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ७ ॥

भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं
सर्वभूतपतिं परात्परमप्रमॆयमनुत्तमम् ।
सॊमवारिनभूहुताशनसॊमपानिलखाकृतिं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ८ ॥

विश्वसृष्टिविधायिनं पुनरॆव पालनतत्परं
संहरन्तमपि प्रपञ्चमशॆषलॊकनिवासिनम् ।
क्रीडयन्तमहर्निशं गणनाथयूथसमन्वितं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ९ ॥

मृत्युभीतमृकण्डुसूनुकृतस्तवं शिवसन्निधौ
यत्र कुत्र च यः पठॆन्न हि तस्य मृत्युभयं भवॆत् ।
पूर्णमायुररॊगतामखिलार्थसंपदमादरात्
चन्द्रशॆखर एव तस्य ददाति मुक्तिमयत्नतः ॥ १० ॥
रुद्रं पशुपतिं स्थाणुं नीलकंठ मुमापतिम |
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ||११ ||
कालकठं कलामुर्तिं कालाग्निं कालनाशनम |
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति || १२ ||
नीलकठं विरुपाक्षम निर्मलं निरुपद्रवं |
नमामि शिरसा देवं किं नो मृत्यु : करिष्यति ||१३ ||
वामदेवं महादेवं लोकनाथं जगद्गुरुं |
नमामि शिरसा देवं किं नो मृत्यु : करिष्यति ||१४ ||
देवदेवं जगन्नाथं देवेश वृषभध्वजम |
नमामि शिरसा देवं किं नो मृत्यु : करिष्यति || १५ ||
अनन्तमव्ययम शान्तमक्षमालाधरं हरम |
नमामि शिरसा देवं किं नो मृत्यु : करिष्यति ||१६ ||
आनन्दम परमं नित्यं केवल्यपदकारणं |
नमामि शिरसा देवं किं नो मृत्यु : करिष्यति ||१७ ||
स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणं |
नमामि शिरसा देवं किं नो मृत्यु : करिष्यति ||१८ ||

No comments:

Post a Comment