Search This Blog

Tuesday, June 7, 2011

श्री दक्षिणामूर्त्यष्टकम् (श्री शंकराचार्यकृतम्)

ॐ दक्षिणा मूर्तये नमः

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवॊद्भूतं यथा निद्रया ।
यः साक्षात्कुरुतॆ प्रबॊधसमयॆ स्वात्मानमॆवाद्वयं
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ १ ॥

बीजस्यान्तरिवाङ्कुरॊ जगदिदं प्राङ्निर्विकल्पं पुनर्-
मायाकल्पितदॆशकालकलनावैचित्र्यचित्रीकृतम् ।
मायावीव विजृंभयत्यपि महायॊगीव यः स्वॆच्छया
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ २ ॥

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासतॆ
साक्षात्तत्त्वमसीति वॆदवचसा यॊ बॊधयत्याश्रितान् ।
यत्साक्षात्करणाद्भवॆन्नपुनरावृत्तिर्भवाम्भॊनिधौ
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ ३ ॥


नानाच्छिद्रघटॊदरस्थितमहादीपप्रभाभासुरं
ज्ञानं यस्यतु चक्षुरादिकरणद्वारा बहिः स्पन्दतॆ ।
जानामीति तमॆव भान्तमनुभात्यॆतत्समस्तं जगत्
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ ४ ॥

दॆहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडॊपमास्त्वहमिति भ्रान्ता भृशं वादिनः ।
मायाशक्तिविलासकल्पितमहाव्यामॊहसंहारिणॆ
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ ५ ॥

राहुग्रस्तदिवाकरॆन्दुसदृशॊ मायासमाच्छादनात्
सन्मात्रः करणोपसंहरणतॊ यॊऽभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबॊधसमयॆ यः प्रत्यभिज्ञायतॆ
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ ६ ॥

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरॊति भजतां यॊ मुद्रया भद्रया
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ ७ ॥

विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भॆदतः ।
स्वप्नॆ जाग्रति वा य एष पुरुषॊ माया परिभ्रामितः
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ ८ ॥

भूरंभांस्यनलॊऽनिलॊऽम्बरमहर्नाथॊ हिमांशुः पुमा-
नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत् किञ्चन विद्यतॆ विमृशतां यस्मात् परस्माद्विभॊः
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ ९ ॥


सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे
तॆनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात् ।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्यॆतत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥ १० ॥

श्री दक्षिणामूर्तिस्तॊत्रम् (श्री शंकराचार्यविरचितम्)





उपासकानां यदुपासनीयं
उपात्तवासं वटशाखिमूलॆ ।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्या
जागर्त्तु चित्तॆ मम बॊधरूपम् ॥ १ ॥

अद्राक्षमक्षीणदयानिधानं
आचार्यमाद्यं वटमूलभागॆ ।
मौनॆन मन्दस्मितभूषितॆन
महर्षिलॊकस्य तमॊ नुदन्तम् ॥ २ ॥

विद्राविताशॆषतमॊगुणॆन
मुद्राविशॆषॆण मुहुर्मुनीनाम् ।
निरस्यमायां दयया विधत्तॆ
दॆवॊ महांस्तत्वमसीतिबॊधम् ॥ ३ ॥


अपारकारुण्यसुधातरङ्गैः
अपाङ्गपातैरवलॊकयन्तम् ।
कठॊरसंसारनिदाघतप्तान्
मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४ ॥

ममाद्य दॆवॊ वटमूलवासी
कृपाविशॆषात् कृतसन्निधानः ।
ऒंकाररूपामुपदिश्य विद्याम्
आविद्यकध्वान्तमपाकरॊतु ॥ ५ ॥

कलाभिरिन्दॊरिवकल्पिताङ्गं
मुक्ताकलापैरिव बद्धमूर्तिम् ।
आलॊकयॆ दॆशिकमप्रमॆयं
अनाद्यविद्यातिमिरप्रभातम् ॥ ६ ॥

स्वदक्षजानुस्थितवामपादं
पादॊदरालङ्कृतयॊगपट्टम् ।
अपस्मृतॆराहितपादमङ्गॆ
प्रणौमि दॆवं प्रणिधानवन्तम् ॥ ७ ॥

तत्वार्थमन्तॆवसतामृषीणां
युवाऽपि यः सन्नुपदॆष्टुमीष्टॆ ।
प्रणौमि तं प्राक्तनपुण्यजालैः
आचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥

एकॆन मुद्रां परशुं करॆण
करॆण चान्यॆन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्तात्
आचार्यचूडामणिराविरस्तु ॥ ९ ॥


आलॆपवन्तं मदनाङ्गभूत्या
शार्दूलकृत्त्या परिधानवन्तम् ।
आलॊकये कञ्चन दॆशिकॆन्द्रं
अज्ञानवाराकरबाडवाग्निम् ॥ १० ॥

चारुस्मितं सॊमकलावतंसं
वीणाधरं व्यक्तजटाकलापम् ।
उपासतॆ कॆचन यॊगिनस्त्वां
उपात्तनादानुभवप्रमॊदम् ॥ ११ ॥

उपासतॆ यं मुनयः शुकाद्याः
निराशिषॊ निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं महॆशं
उपास्महॆ मॊहमहार्तिशान्त्यै ॥ १२ ॥

कान्त्या निन्दितकुन्दकन्दलवपुः न्यग्रॊधमूलॆ वसन्
कारुण्यामृतवारिभिर्मुनिजनान् संभावयन् वीक्षितैः ।
मॊहध्वान्तविभॆदनं विरचयन् बॊधेन तत्तादृशा
दॆवस्तत्वमसीति बॊधयतु मां मुद्रावता पाणिना ॥ १३ ॥

अगौरगात्रैरललाटनॆत्रैः अशान्तवॆषैरभुजंगभूषैः ।
अबॊधमुद्रैरनपास्तनिद्रैः अपूरकामैरमरैरलं नः ॥ १४ ॥

दैवतानि कति सन्ति चावनौ नैव तानि मनसॊ मतानि मॆ ।
दीक्षितं जडधियामनुग्रहॆ दक्षिणाभिमुखमॆव दैवतम ॥ १५ ॥

मुदिताय मुग्द्धशशिनाऽवतंसिनॆ
भसितावलॆपरमणीयमूर्तयॆ ।
जगदिन्द्रजालरचनापटीयसॆ
महसॆ नमॊऽस्तु वटमूलवासिनॆ ॥ १६ ॥

व्यालंबिनीभिः परितॊ जटाभिः
कलावशॆषॆण कलाधरॆण ।
स्फुरल्ललाटॆन मुखॆन्दुना च
प्रकाशसॆ चॆतसि निर्मलानाम् ॥ १७ ॥

उपासकानां त्वमुमासहायः
पूर्णेन्दुभावं प्रकटीकरॊषि ।
यदद्य तॆ दर्शनमात्रतॊ मॆ
द्रवत्यहॊ मानसचन्द्रकान्तः ॥ १८ ॥

यस्तॆ प्रसन्नामनुसंदधानॊ
मूर्तिं मुदा मुग्द्धशशाङ्कमौलॆः ।
एश्वर्यमायुर्लभतॆ च विद्यां
अन्तॆ च वॆदान्तमहारहस्यम् ॥ १९ ॥

Monday, May 30, 2011

नवधा भक्ति


Navadhaa Bhakti (Nine types of bhakti)

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनं ।

अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥

Sravanam keertanam vishnoh smaranam paadasevanam

Archanam vandanam daasyam sakhyamaatmanivedanam [7.5.23]

Hearing stories about the glories of the Lord, singing His praises, remembering His captivating form and His exploits, serving His lotus-feet, worshipping Him by flowers and fruits, obeisance or prostration before Him , humble service to Him, friendship with Him and complete surrender to Him – these are the nine types of bhakti. The following sloka gives examples of devotees who excelled in each of these types of bhakti:

Thursday, May 26, 2011

गॊविन्दाष्टकम्





सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशम्
गॊष्ठप्राङ्गणरिङ्गणलॊलमनायासं परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारम्
क्ष्मामानाथमनाथं प्रणमत गॊविन्दं परमानन्दम् ॥ १ ॥

मृत्स्नामत्सीहॆति यशॊदाताडनशैशवसन्त्रासम्
व्यादितवक्त्रालॊकितलॊकालॊकचतुर्दशलॊकालिम् ।
लॊकत्रयपुरमूलस्तंभं लॊकालॊकमनालॊकम्
लॊकॆशं परमॆशं प्रणमत गॊविन्दं परमानन्दम् ॥ २ ॥

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरॊगघ्नम्
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
वैमल्यस्फुटचॆतोवृत्तिविशॆषाभासमनाभासम्
शैवं कॆवलशान्तं प्रणमत गॊविन्दं परमानन्दम् ॥ ३ ॥

गॊपालं भूलीलाविग्रहगॊपालं कुलगॊपालम्
गॊपीखॆलनगॊवर्द्धनधृतिलीलालालितगॊपालम् ।
गॊभिर्निगदितगॊविन्दस्फुटनामानं बहुनामानम्
गॊपीगॊचरदूरं प्रणमत गॊविन्दं परमानन्दम् ॥ ४ ॥

गॊपीमण्डलगॊष्ठीभॆदं भॆदावस्थमभॆदाभम्
शश्वत्गॊखुरनिर्द्धूतॊद्धत धूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावम्
चिन्तामणि महिमानं प्रणमत गॊविन्दं परमानन्दम् ॥ ५ ॥

स्नानव्याकुलयॊषिद्वस्त्रमुपादायागमुपारूढम्
व्यादित्सन्तीरथ दिग्वस्त्रा ताः दातुमुपाकर्षन्तम् ।
निर्द्धूतद्वयशॊकविमॊहं बुद्धं बुद्धॆरन्तस्थम्
सत्तामात्रशरीरं प्रणमत गॊविन्दं परमानन्दम् ॥ ६ ॥

कान्तं कारणकारणमादिमनादिं कालघनाभासम्
कालिन्दीगतकालियशिरसि सुनृत्यन्तं मुहुरत्यन्तम् ।
कालं कालकलातीतं कलिताशॆषं कलिदॊषघ्नम्
कालत्रयगतिहॆतुं प्रणमत गॊविन्दं परमानन्दम् ॥ ७ ॥

वृन्दावनभुवि वृन्दारकगणवृन्दाराधित पादाब्जम्
कुन्दाभामलमन्दस्मॆरसुधानन्दं सुमहानन्दम् ।
वन्द्याशॆषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं
वन्द्याशॆषगुणाब्धिं प्रणमत गॊविन्दं परमानन्दम् ॥ ८ ॥

गॊविन्दाष्टकमॆतदधीतॆ गॊविन्दार्पितचॆतॊ यॊ
गॊविन्दाच्युत माधव विष्णॊ गॊकुलनायक कृष्णॆति ।
गॊविन्दाङ्घ्रिसरॊजध्यानसुधाजलधौतसमस्ताघॊ
गॊविन्दं परमानन्दामृतमन्तःस्थं स समभ्यॆति ॥ ९ ॥

Saturday, May 21, 2011

प्रज्ञा विवर्धन कार्तिकेय स्तोत्रं PRAGYAA VIVARDHANA KAARTIKEYA STOTRAM





श्री गणेशाय नमः . श्री स्कन्द उवाच
योगीश्वरो महासेनः कार्तिकेयोऽग्निनंदनः |
स्कन्दः कुमारः सेनानी स्वामी शंकरसम्भवः ||
गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः |
तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः ||
शब्दब्रह्म समुद्रश्च सिद्धः सारस्वतो गुहः |
सनत्कुमारो भगवान् भोग मोक्ष फलप्रदः ||
शरजन्मा गुणादीशः पूर्वजो मुक्ति मार्गकृत् |
सर्वागम प्रणेता च वाञ्छितार्थ प्रदर्शनः ||
अष्टाविंशति नामानि मदीयानीति यः पठेत् |
प्रत्यूषम् श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ||
महामन्त्रमया नीति मम नामानुकीर्तनम् |
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ||

..|| इति श्री रुद्रयामले प्रज्ञाविवर्धनाख्यम् श्रीमत्कार्तिकेयस्तोत्रम् संपूर्णम् ||..

श्रीभवान्यष्टकम् (शंकराचार्यकृतम्)



न तातॊ न माता न बन्धुर्न दाता

न पुत्रॊ न पुत्री न भृत्यॊ न भर्ता ।

न जाया न विद्या न वृत्तिर्ममैव

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ १ ॥

भवाब्धावपारे महादुःखभीरुः

पपात प्रकामी प्रलॊभी प्रमत्तः ।

कुसंसारपाशप्रबद्धः सदाहम्

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ २ ॥

न जानामि दानं न च ध्यानयॊगं

न जानामि तन्त्रं न च स्तॊत्रमन्त्रम् ।

न जानामि पूजां न च न्यासयॊगं

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ३ ॥

न जानामि पुण्यं न जानामि तीर्थं

न जानामि मुक्तिं लयं वा कदाचित् ।

न जानामि भक्तिं व्रतं वापि मातः

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ४ ॥

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः

कुलाचारहीनः कदाचारलीनः ।

कुदृष्टिः कुवाक्यप्रबन्धः सदाहं

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ५ ॥

प्रजॆशं रमॆशं महॆशं सुरॆशं

दिनॆशं निशीथॆश्वरं वा कदाचित् ।

न जानामि चान्यत् सदाहं शरण्यॆ

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ६ ॥

विवादॆ विषादॆ प्रमादॆ प्रवासॆ

जलॆ चानलॆ पर्वतॆ शत्रुमध्ये ।

अरण्यॆ शरण्यॆ सदा मां प्रपाहि

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ७ ॥

अनाथॊ दरिद्रॊ जरारॊगयुक्तॊ

महाक्षीणदीनः सदा जाड्यवक्त्रः ।

विपत्तौ प्रविष्टः प्रणष्टः सदाहं

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ८ ॥

Thursday, May 19, 2011

गणपति स्तुति (तुलसीदासकृत )


गाइये गनपति जगबंदन ।

संकर-सुवन भवानी नंदन ॥ १ ॥

सिद्धि-सदन, गज बदन, बिनायक ।

कृपा-सिंधु,सुंदर सब-लायक ॥ २ ॥

मोदक-प्रिय, मुद-मंगल-दाता ।

बिद्या-बारिधि,बुद्धि बिधाता ॥ ३ ॥

माँगत तुलसिदास कर जोरे ।

बसहिं रामसिय मानस मोरे ॥ ४ ॥