Search This Blog

Friday, January 3, 2014

.સુવાક્ય


સપનાં જોશો નહીં Beauty ના,
એનાથી બગડી જશે તમારી Duty,
સપનાં જુઓ તમારી Duty ના,
એનાથી વધી જશે તમારી જિંદગીની Beauty ..!!


પત્તાંથી મહેલ નથી બનતો,
નદીને રોકવાથી દરિયો નથી બનતો,
આગળ વધતા રહો જિંદગીમાં દરેક ક્ષણે,
એક જીત મેળવવાથી કોઈ સિકંદર નથી બનતો...


ભણેલા લોકો પરિસ્થિતિઓ અનુસાર સ્વયંને બદલી નાખે છે.
અનુભવી લોકો સ્વયંને અનુસાર પરિસ્થિતિઓને બદલી નાખે છે..


સમયને મહત્વ આપનારા જ જીવનમાં પ્રત્યેક ક્ષેત્રમાં સફળતા પ્રાપ્ત કરે છે...

પાત્ર અને કુપાત્રમાં મોટો ફરક છે...
ગાય ઘાસ ખાઈને પણ દૂધ આપે છે,,
જ્યારે સાપ દૂધ પીને પણ ઝેર ઓકે છે..



સફળ વ્યક્તિઓનાં હોઠ પર બે ચીજ હંમેશાં રહેતી હોય,
'મૌન' અને 'સ્મિત'.
'મૌન' સમસ્યાઓ ટાળવા માટે અને,
'સ્મિત' સમસ્યાઓ ઉકેલવા માટે..


મારા વાળ સફેદ થવા માંડ્યા છે તો મારે શું સમજવું..?
સફેદ વાળ એમ કહે છે કે,,
'હવે જીવનને વધુ સ્વચ્છ અને વૃત્તિઓને સાત્વિક બનાવો..'


અંધારામાં પ્રકાશ ફેલાવીને તો જુઓ,
ઘમંડને દિલમાંથી ભગાડીને તો જુઓ,
દ્રઢવિશ્વાસ દિલમાં હોય તો સફળતા ચોક્કસ મળે છે,
એક ડગલું આગળ વધારીને તો જુઓ...

તમારું કર્તવ્ય ‘હોવાનું’ છે, ‘આ’ કે ‘તે’ થવાનું નહિ. ‘હું છું તે હું છું’
એમાં સમગ્ર સત્ય આવી જાય છે. ‘શાંત રહો’ ...એ પધ્ધ્તિનો સાર છે.

Wednesday, January 1, 2014

सुवचनानि

अति परिचयादवज्ञा  |
अति लोभो विनाशाय |
अति तृष्णा न कर्तव्या |
अति सर्वत्र वर्जयेत् |

Thursday, December 26, 2013

प्रेम प्रेम सब कोउ कहत, प्रेम न जानत कोइ।
जो जन जानै प्रेम तो, मरै जगत क्यों रोइ॥

મીરાંબાઈ




        મને લાગી કટારી પ્રેમની

પ્રેમની, પ્રેમની, પ્રેમની રે;

    મુને લાગી કટારી પ્રેમની.

જળ જમુનાનાં ભરવા ગયા'તાં;
હતી ગાગર માથે હેમની રે;

    મુને લાગી કટારી પ્રેમની.

કાચે તે તાંતણે હરિજીએ બાંધી;
જેમ ખેંચે તેમ તેમની રે;

    મુને લાગી કટારી પ્રેમની.

બાઈ મીરાં કહે પ્રભુ ગિરધર નાગર;
શામળી સૂરત શુભ એમની રે;

    મુને લાગી કટારી પ્રેમની.

श्रीस्तुतिः (श्री वॆदान्तदॆशिकविरचितम्)



मानातीतप्रथितविभवां मङ्गलं मङ्गलानां
वक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या ।
प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां
श्रॆयॊमूर्तिं श्रियमशरणः त्वां शरण्यां प्रपद्यॆ ॥ १ ॥

आविर्भावः कलशजलधावध्वरॆ वापि यस्याः
स्थानं यस्याः सरसिजवनं विष्णुवक्षस्थलं वा ।
भूमा यस्या भुवनमखिलं दॆवि दिव्यं पदं वा
स्तॊकप्रज्ञैरनवधिगुणा स्तूयसॆ सा कथं त्वम् ॥ २ ॥

स्तॊतव्यत्वं दिशति भवती दॆहिभिः स्तूयमाना
तामॆव त्वामनितरगतिः स्तॊतुमाशंसमानः।
सिद्धारम्भः सकलभुवनश्लाघनीयॊ भवॆयं
सॆवापॆक्षा तव चरणयॊः श्रॆयसॆ कस्य न स्यात् ॥ ३ ॥

यत् सङ्कल्पात् भवति कमलॆ यत्र दॆहिन्यमीषां
जन्मस्थॆमप्रलयरचना जङ्गमाजङ्गमानाम् ।
तत् कल्याणं किमपि यमिनामॆकलक्ष्यं समाधौ
पूर्णं तॆजः स्फुरति भवती पादलाक्षारसाङ्कम् ॥ ४ ॥

निष्प्रत्यूहप्रणयघटितं दॆवि नित्यानपायं
विष्णुस्त्वं चॆत्यनवधिगुणं द्वन्द्वमन्यॊन्यलक्ष्यम् ।
शॆषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां
संपद्यन्तॆ विहरणविधौ यस्य शय्याविशॆषाः ॥ ५ ॥

उद्दॆश्यत्वं जननि भजतॊरुझितॊपाधिगन्धं
प्रत्यग्रूपॆ हविषि युवयॊरॆकशॆषित्वयॊगात् ।
पद्मॆ पत्युस्तव च निगमैर्नित्यमन्विष्यमाणॊ
नावच्छॆदं भजति महिमा नर्तयन् मानसं नः ॥ ६ ॥

पश्यन्तीषु श्रुतिषु परितः सूरिबृन्दॆनसार्धं
मध्यॆकृत्य त्रिगुणफलकं निर्मितस्थानभॆदम् ।
विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ
ब्रह्मॆशाद्या दधति युवयॊरक्षशार प्रचारम् ॥ ७ ॥

अस्यॆशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरॆति ।
यन्नामानि श्रुतिपरिपणान्यॆवमावर्तयन्तॊ
नावर्तन्तॆ दुरितपवनप्रॆरितॆ जन्मचक्रॆ ॥ ८ ॥

त्वामॆवाहुः कतिचिदपरॆ त्वत्प्रियं लॊकनाथं
किंतैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः ।
त्वत्‌संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां
भावारूढौ भगवति युवां दैवतं दंपती नः ॥ ९ ॥


आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णॊः
आचख्युस्त्वां प्रियसहचरीमैकमत्यॊपपन्नां ।
प्रादुर्भावैरपि समतनुः प्राक्तमन्वीयसॆ  त्वम्
दूरॆक्षिप्तैरिव मधुरता दुग्धराशॆस्तरङ्गैः ॥ १० ॥

धत्तॆ शॊभां हरिमरकतॆ तावकीमूर्तिराद्या
तन्वी तुङ्गस्तनभरनता तप्तजांबूनदाभा ।
यस्यां गच्छत्युदयविलयैर्नित्यमानन्दसिन्धा-
विच्छावॆगॊल्लसितलहरी विभ्रमं व्यक्तयस्तॆ ॥ ११ ॥

आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः
यद्भ्रूभङ्गात् कुसुमधनुषः किङ्करॊ मॆरुधन्वा ।
यस्यां नित्यं नयनशतकैरॆकलक्ष्यॊ महॆन्द्रः
पद्मॆ तासां परिणतिरसौ भावलॆशैस्त्वदीयैः ॥ १२ ॥

अग्रॆ भर्तुः सरसिजमयॆ भद्रपीठॆ निषण्णां
अम्भॊराशॆरधिगतसुधासंप्लवादुत्थितां त्वाम् ।
पुष्पासार स्थगितभुवनैः पुष्कलावर्तकाद्यैः
कॢप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजॆन्द्राः ॥ १३ ॥


आलॊक्य त्वाममृतसहजॆ विष्णुवक्षस्थलस्थाम्
शापाक्रान्ताः शरणमगमन् सावरॊधाः सुरॆन्द्राः ।
लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत् कटाक्षैः
सर्वाकारस्थिरसमुदयां संपदं निर्विशन्ति ॥ १४ ॥

आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहैः
अम्भॊजानामुषसिमिषतामन्तरंगैरपांगैः ।
यस्यां यस्यां दिशि विहरतॆ दॆवि दृष्टिस्त्वदीया
तस्यां तस्यामहमहमिकां तन्वतॆ संपदॊघाः ॥ १५ ॥

यॊगारम्भत्वरितमनसॊ युष्मदैकान्त्ययुक्तं
धर्मं प्राप्तुं प्रथममिह यॆ धारयन्तॆ धनायाम् ।
तॆषां भूमॆर्धनपतिगृहादंबरादंबुधॆर्वा
धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥ १६ ॥

श्रॆयस्कामा कमलनिलयॆ चित्रमाम्नायवाचां
चूडापीडं तव पदयुगं चॆतसा धारयन्तः ।
छत्रछाया सुभगशिरसश्चामरस्मॆरपार्श्वाः
श्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ॥ १७ ॥

ऊरीकर्तुं कुशलमखिलं जॆतुमादीनरातीन्
दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् ।
अंब स्तंबावधिक जननग्रामसीमान्तरॆखां
आलंबन्तॆ विमलमनसॊ विष्णुकान्तॆ दयां तॆ  ॥ १८ ॥

जाताकाङ्क्षा जननि युवयॊरॆकसॆवाधिकारॆ
मायालीढं विभवमखिलं मन्यमानास्तृणाय ।
प्रीत्यै विष्णॊस्तवच कृतिनः प्रीतिमन्तॊ भजन्तॆ
वॆलाभङ्गप्रशमनफलं वैदिकं धर्मसॆतुम् ॥ १९ ॥

सॆवॆ दॆवि त्रिदशमहिलामौलिमालार्चितं तॆ
सिद्धिक्षॆत्रं शमितविपदां संपदां पादपद्मम् ।
यस्मिन्नीषन्नमितशिरसॊ  यापयित्वा शरीरं
वर्तिष्यन्तॆ वितमसि पदॆ वासुदॆवस्य धन्याः ॥ २० ॥

सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैः
अंब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः ।
घर्मॆ तापत्रयविरचितॆ गाढतप्तं क्षणं मां
आकिञ्चन्यग्लपितमनघैरार्द्रयॆथाः कटाक्षैः ॥ २१ ॥

संपद्यन्तॆ भवभयतमॊभानवस्त्वत् प्रसादात्
भावाः सर्वॆ भगवति हरौ भक्तिमुद्वॆलयन्तः ।
याचॆ किं त्वामहमिह यतः शीतलॊदारशीला
भूयॊ भूयॊ दिशसि महतां मङ्गलानां प्रबन्धान् ॥ २२ ॥

माता दॆवि त्वमसि भगवान् वासुदॆवः पिता मॆ
जातः सॊहं जननि युवयॊरॆकलक्ष्यं दयायाः ।
दत्तॊ युष्मत् परिजनतया दॆशिकैरप्यतस्त्वं
किं तॆ भूयः प्रियमिति किल स्मॆरवक्त्रा विभासि ॥ २३ ॥

कल्याणानामविकलनिधिः कापि कारुण्यसीमा
नित्यामॊदा निगमवचसां मौलिमन्दारमाला ।
संपद्दिव्या मधुविजयिनः सन्निधत्तां सदा मॆ
सैषा दॆवी सकलभुवनप्रार्थना कामधॆनुः ॥ २४ ॥

उपचितगुरुभक्तॆरुत्थितं वॆङ्कटॆशात्
कलिकलुषनिवृत्यै कल्प्यमानं प्रजानाम् ।
सरसिजनिलयायाः स्तॊत्रमॆतत् पठन्तः
सकलकुशलसीमाः सर्वभौमा भवन्ति ॥

श्रीविष्णुशतनामस्तॊत्रम्



वासुदॆवं हृषीकॆशं वामनं जलशायिनम् ।
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ॥ १ ॥

वराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् ।
अव्यक्तं शाश्वतं विष्णुं अनन्तमजमव्ययम् ॥ २ ॥

नारायणं गदाध्यक्षं गॊविन्दं कीर्तिभाजनम् ।
गॊवर्द्धनॊद्धरं दॆवं भूधरं भुवनॆश्वरं ॥ ३ ॥

वॆत्तारं यज्ञपुरुषं यज्ञॆशं यज्ञवाहकम् ।
चक्रपाणिं गदापाणिं शङ्खपाणिं नरॊत्तमम् ॥ ४ ॥

वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् ।
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दिकॆश्वरं ॥ ५ ॥

रामं रामं हयग्रीवं भीमं रौद्रं भवॊद्भवम् ।
श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् ॥ ६ ॥

दामॊदरं दमॊपॆतं कॆशवं कॆशिसूदनम् ।
वरॆण्यं वरदं विष्णुं आनन्दं वसुदॆवजम् ॥ ७ ॥

हिरण्यरॆतसं दीप्तं पुराणं पुरुषॊत्तमम् ।
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥ ८ ॥

हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् ।
मॆघश्यामं चतुर्बाहुं कुशलं कमलॆक्षणम् ॥ ९ ॥

ज्यॊतिरूपमरूपं च स्वरूपं रूपसंस्थितम् ।
सर्वज्ञं सर्वरूपस्थं सर्वॆशं सर्वतॊमुखम् ॥ १० ॥

ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम् ।
यॊगीशं यॊगनिष्णातं यॊगिनं यॊगरूपिणम् ॥ ११ ॥

ईश्वरं सर्वभूतानां वन्दॆ भूतमयं प्रभुम् ।
इति नामशतं दिव्यं वैष्णवं खलु पापहम् ॥ १२ ॥

व्यासॆन कथितं पूर्वं सर्वपापप्रणाशनम् ।
यः पठेत् प्रातरुत्थाय स भवेत् वैष्णवॊ नरः
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् ॥ १३ ॥

વિદૂરનીતિ

લક્ષ્મી અતિગુણવાન પાસે રહેતી નથી તેમ અતિશય ગુણહીનની પાસે પણ રહેતી નથી.