Search This Blog

Tuesday, June 21, 2011

बाधा शांति के लीये सप्तशती का श्लोक

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि

एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्

શ્રી સિદ્ધ કુંજીકા સ્તોત્ર

શિવ ઉવાચ

શૃણુ દેવિ પ્રવક્ષ્યામિ કુંજિકાસ્તોત્રમુત્તમમ્। યેન મન્ત્રપ્રભાવેણ ચણ્ડીજાપઃ શુભો ભવેત્॥

ન કવચં નાર્ગલાસ્તોત્રં કીલકં ન રહસ્યકમ્। ન સૂક્તં નાપિ ધ્યાનં ચ ન ન્યાસો ન ચ વાર્ચનમ્॥

કુંજિકાપાઠમાત્રેણ દુર્ગાપાઠફલં લભેત્। અતિ ગુહ્યતરં દેવિ દેવાનામપિ દુર્લભમ્॥

ગોપનીયં પ્રયત્નેન સ્વયોનિરિવ પાર્વતિ। મારણં મોહનં વશ્યં સ્તમ્ભનોચ્ચાટનાદિકમ્।
પાઠમાત્રેણ સંસિદ્ધ્યેત્ કુંજિકાસ્તોત્રમુત્તમમ્॥

અથ મંત્ર

ૐ ઐં હ્રીં ક્લીં ચામુણ્ડાયૈ વિચ્ચે।
ૐ ગ્લૌં હું ક્લીં જૂં સઃ જ્વાલય જ્વાલય જ્વલ જ્વલ પ્રજ્વલ પ્રજ્વલ ઐં હ્રીં ક્લીં ચામુણ્ડાયૈ વિચ્ચે જ્વલ હં સં લં ક્ષં ફટ્ સ્વાહા ।

॥ ઇતિ મંત્રઃ॥

નમસ્તે રુદ્રરૂપિણ્યૈ નમસ્તે મધુમર્દિનિ। નમઃ કૈટભહારિણ્યૈ નમસ્તે મહિષાર્દિનિ॥

નમસ્તે શુમ્ભહન્ત્ર્યૈ ચ નિશુમ્ભાસુરઘાતિનિ॥ જાગ્રતં હિ મહાદેવિ જપં સિદ્ધં કુરુષ્વ મે।

ઐંકારી સૃષ્ટિરૂપાયૈ હ્રીંકારી પ્રતિપાલિકા॥ ક્લીંકારી કામરૂપિણ્યૈ બીજરૂપે નમોઽસ્તુ તે।

ચામુણ્ડા ચણ્ડઘાતી ચ યૈકારી વરદાયિની॥ વિચ્ચે ચાભયદા નિત્યં નમસ્તે મંત્રરૂપિણિ॥

ધાં ધીં ધૂં ધૂર્જટેઃ પત્ની વાં વીં વૂં વાગધીશ્વરી। ક્રાં ક્રીં ક્રૂં કાલિકા દેવિ શાં શીં શૂં મે શુભં કુરુ॥

હું હું હુંકારરૂપિણ્યૈ જં જં જં જમ્ભનાદિની। ભ્રાં ભ્રીં ભ્રૂં ભૈરવી ભદ્રે ભવાન્યૈ તે નમો નમઃ॥

અં કં ચં ટં તં પં યં શં વીં દું ઐં વીં હં ક્ષં ધિજાગ્રં ધિજાગ્રં ત્રોટય ત્રોટય દીપ્તં કુરુ કુરુ સ્વાહા॥

પાં પીં પૂં પાર્વતી પૂર્ણા ખાં ખીં ખૂં ખેચરી તથા॥ સાં સીં સૂં સપ્તશતી દેવ્યા મંત્રસિદ્ધિં કુરુષ્વ મે॥

ઇદં તુ કુંજિકાસ્તોત્રં મંત્રજાગર્તિહેતવે। અભક્તે નૈવ દાતવ્યં ગોપિતં રક્ષ પાર્વતિ॥

યસ્તુ કુંજિકયા દેવિ હીનાં સપ્તશતીં પઠેત્। ન તસ્ય જાયતે સિદ્ધિરરણ્યે રોદનં યથા॥

।। ઇતિ શ્રીરુદ્રયામલે ગૌરીતંત્રે શિવપાર્વતીસંવાદે કુંજિકાસ્તોત્રં સંપૂર્ણમ્ ।।

શ્રી દેવ્યાર્પણમસ્તુ।।

Saturday, June 11, 2011

रसखान के दोहे


सेस गनेस महेस दिनेस, सुरेसहु जाहि निरंतर गावै।

जाहि अनादि अनंत अखण्ड, अछेद अभेद सुबेद बतावैं॥

नारद से सुक व्यास रटें, पचिहारे तऊ पुनि पार न पावैं।

ताहि अहीर की छोहरियाँ, छछिया भरि छाछ पै नाच नचावैं॥

Wednesday, June 8, 2011

कनकधारास्तॊत्रम (श्रीशंकराचार्यविरचितम्)







अङ्गं
हरॆः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनॆव मुकुलाभरणं तमालम्
अंगीकृताखिलविभूतिरपांगलीला
मांगल्यदास्तु मम मंगलदॆवतायाः

मुग्धा मुहुर्विदधती वदनॆ मुरारॆः
प्रॆमत्रपाप्रणिहितानि गतागतानि
माला दृशॊर्मधुकरीव महॊत्पलॆ या
सा मे श्रियं दिशतु सागरसंभवायाः

आमीलिताक्षमधिगम्य मुदा मुकुन्दं
आनन्दकन्दमनिमॆषमनंगतन्त्रम्
आकॆकरस्थितकनीनिकपक्ष्मनॆत्रं
भूत्यै भवॆन्मम भुजंगशयांगनायाः

बाह्वन्तरॆ मधुजितः श्रितकौस्तुभॆ या
हारावलीव हरिनीलमयी विभाति
कामप्रदा भगवतॊऽपि कटाक्षमाला
कल्याणमावहतु मॆ कमलालयायाः

कालाम्बुदालिललितॊरसि कैटभारॆः
धाराधरे स्फुरति या तटिदङ्गनॆव
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मॆ दिशतु भार्गवनन्दनायाः

प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
माङ्गल्यभाजि मधुमाथिनि मन्मथॆन
मयापतॆत्तदिह मन्थरमीक्षणार्धं
मन्दालसं मकरालयकन्यकायाः

विश्वामरॆन्द्रपदविभ्रमदानदक्षं
आनन्दहॆतुरधिकं मुरविद्विषॊऽपि
ईषन्निषीदतु मयि क्षणमीक्षणार्धं
इन्दीवरॊदरसहॊदरमिन्दिरायाः

इष्टा विशिष्टमतयॊऽपि यया दयार्द्र-
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्तॆ
दृष्टिः प्रहृष्टकमलॊदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः

दद्याद्दयानुपवनॊ द्रविणाम्बुधारां
अस्मिन्नकिञ्चनविहंगशिशौ विषण्णॆ
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः

गीर्दॆवतॆति गरुडध्वजसुन्दरीति
शाकंभरीति शशिशॆखरवल्लभॆति
सृष्टिस्थितिप्रलयकॆलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरॊस्तरुण्यै १०

श्रुत्यै नमॊऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमॊऽस्तु रमणीयगुणार्णवायै
शक्त्यै नमॊऽस्तु शतपत्रनिकॆतनायै
पुष्ट्यै नमॊऽस्तु पुरुषॊत्तमवल्लभायै ११

नमॊऽस्तु नालीकनिभाननायै
नमॊऽस्तु दुग्धॊदधिजन्मभूम्यै
नमॊऽस्तु सॊमामृतसॊदरायै
नमॊऽस्तु नारायणवल्लभायै १२

नमॊऽस्तु हॆमाम्बुजपीठिकायै
नमॊऽस्तु भूमण्डलनायिकायै
नमॊऽस्तु दॆवादिदयापरायै
नमॊऽस्तु शाङ्र्गायुधवल्लभायै १३

नमॊऽस्तु दॆव्यै भृगुनन्दनायै
नमॊऽस्तु विष्णॊरुरसि स्थितायै
नमॊऽस्तु लक्ष्म्यै कमलालयायै
नमॊऽस्तु दामॊदरवल्लभायै १४


नमॊऽस्तु कान्त्यै कमलॆक्षणायै
नमॊऽस्तु भूत्यै भुवनप्रसूत्यै
नमॊऽस्तु दॆवादिभिरर्चितायै
नमॊऽस्तु नन्दात्मजवल्लभायै १५

सम्पत्कराणि सकलॆन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरॊरुहाक्षि
त्वद्वन्दनानि दुरिताहरणॊद्यतानि
मामॆव मातरनिशं कलयन्तु मान्यॆ १६

यत्कटाक्षसमुपासनाविधिः
सॆवकस्यसकलार्थसंपदः
सन्तनॊतिवचनाङ्गमानसैः
त्वां मुरारि हृदयॆश्वरीं भजॆ १७

सरसिजनिलयॆ सरॊजहस्तॆ
धवलतरांशुकगन्धमाल्यशॊभॆ
भगवति हरिवल्लभॆ मनॊज्ञॆ
त्रिभुवनभूतिकरि प्रसीद मह्यम् १८

दिग्घस्तिभिः कनककुम्भमुखावसृष्ट-
स्वर्वाहिनीविमलचारुजलाप्लुताङ्गीम्
प्रातर्नमामि जगतां जननीमशॆष-
लॊकाधिनाथगृहिणीममृताब्धिपुत्रीम् १९

कमलॆ कमलाक्षवल्लभॆ त्वं
करुणापूरतरङ्गितैरपाङ्गैः
अवलॊकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः २०

स्तुवन्ति यॆ स्तुतिभिरमीभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम्
गुणाधिका गुरुतरभाग्यभागिनः
भवन्ति तॆ भुवि बुधभाविताशयाः २१

Tuesday, June 7, 2011

श्री दक्षिणामूर्त्यष्टकम् (श्री शंकराचार्यकृतम्)

दक्षिणा मूर्तये नमः

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवॊद्भूतं यथा निद्रया
यः साक्षात्कुरुतॆ प्रबॊधसमयॆ स्वात्मानमॆवाद्वयं
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ

बीजस्यान्तरिवाङ्कुरॊ जगदिदं प्राङ्निर्विकल्पं पुनर्-
मायाकल्पितदॆशकालकलनावैचित्र्यचित्रीकृतम्
मायावीव विजृंभयत्यपि महायॊगीव यः स्वॆच्छया
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासतॆ
साक्षात्तत्त्वमसीति वॆदवचसा यॊ बॊधयत्याश्रितान्
यत्साक्षात्करणाद्भवॆन्नपुनरावृत्तिर्भवाम्भॊनिधौ
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ


नानाच्छिद्रघटॊदरस्थितमहादीपप्रभाभासुरं
ज्ञानं यस्यतु चक्षुरादिकरणद्वारा बहिः स्पन्दतॆ
जानामीति तमॆव भान्तमनुभात्यॆतत्समस्तं जगत्
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ

दॆहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं शून्यं विदुः
स्त्रीबालान्धजडॊपमास्त्वहमिति भ्रान्ता भृशं वादिनः
मायाशक्तिविलासकल्पितमहाव्यामॊहसंहारिणॆ
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ

राहुग्रस्तदिवाकरॆन्दुसदृशॊ मायासमाच्छादनात्
सन्मात्रः करणोपसंहरणतॊ यॊऽभूत्सुषुप्तः पुमान्
प्रागस्वाप्समिति प्रबॊधसमयॆ यः प्रत्यभिज्ञायतॆ
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा
स्वात्मानं प्रकटीकरॊति भजतां यॊ मुद्रया भद्रया
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ

विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भॆदतः
स्वप्नॆ जाग्रति वा एष पुरुषॊ माया परिभ्रामितः
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ

भूरंभांस्यनलॊऽनिलॊऽम्बरमहर्नाथॊ हिमांशुः पुमा-
नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम्
नान्यत् किञ्चन विद्यतॆ विमृशतां यस्मात् परस्माद्विभॊः
तस्मै श्री गुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ


सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे
तॆनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात्
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्यॆतत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् १०

श्री दक्षिणामूर्तिस्तॊत्रम् (श्री शंकराचार्यविरचितम्)





उपासकानां यदुपासनीयं
उपात्तवासं वटशाखिमूलॆ ।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्या
जागर्त्तु चित्तॆ मम बॊधरूपम् ॥ १ ॥

अद्राक्षमक्षीणदयानिधानं
आचार्यमाद्यं वटमूलभागॆ ।
मौनॆन मन्दस्मितभूषितॆन
महर्षिलॊकस्य तमॊ नुदन्तम् ॥ २ ॥

विद्राविताशॆषतमॊगुणॆन
मुद्राविशॆषॆण मुहुर्मुनीनाम् ।
निरस्यमायां दयया विधत्तॆ
दॆवॊ महांस्तत्वमसीतिबॊधम् ॥ ३ ॥


अपारकारुण्यसुधातरङ्गैः
अपाङ्गपातैरवलॊकयन्तम् ।
कठॊरसंसारनिदाघतप्तान्
मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४ ॥

ममाद्य दॆवॊ वटमूलवासी
कृपाविशॆषात् कृतसन्निधानः ।
ऒंकाररूपामुपदिश्य विद्याम्
आविद्यकध्वान्तमपाकरॊतु ॥ ५ ॥

कलाभिरिन्दॊरिवकल्पिताङ्गं
मुक्ताकलापैरिव बद्धमूर्तिम् ।
आलॊकयॆ दॆशिकमप्रमॆयं
अनाद्यविद्यातिमिरप्रभातम् ॥ ६ ॥

स्वदक्षजानुस्थितवामपादं
पादॊदरालङ्कृतयॊगपट्टम् ।
अपस्मृतॆराहितपादमङ्गॆ
प्रणौमि दॆवं प्रणिधानवन्तम् ॥ ७ ॥

तत्वार्थमन्तॆवसतामृषीणां
युवाऽपि यः सन्नुपदॆष्टुमीष्टॆ ।
प्रणौमि तं प्राक्तनपुण्यजालैः
आचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥

एकॆन मुद्रां परशुं करॆण
करॆण चान्यॆन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्तात्
आचार्यचूडामणिराविरस्तु ॥ ९ ॥


आलॆपवन्तं मदनाङ्गभूत्या
शार्दूलकृत्त्या परिधानवन्तम् ।
आलॊकये कञ्चन दॆशिकॆन्द्रं
अज्ञानवाराकरबाडवाग्निम् ॥ १० ॥

चारुस्मितं सॊमकलावतंसं
वीणाधरं व्यक्तजटाकलापम् ।
उपासतॆ कॆचन यॊगिनस्त्वां
उपात्तनादानुभवप्रमॊदम् ॥ ११ ॥

उपासतॆ यं मुनयः शुकाद्याः
निराशिषॊ निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं महॆशं
उपास्महॆ मॊहमहार्तिशान्त्यै ॥ १२ ॥

कान्त्या निन्दितकुन्दकन्दलवपुः न्यग्रॊधमूलॆ वसन्
कारुण्यामृतवारिभिर्मुनिजनान् संभावयन् वीक्षितैः ।
मॊहध्वान्तविभॆदनं विरचयन् बॊधेन तत्तादृशा
दॆवस्तत्वमसीति बॊधयतु मां मुद्रावता पाणिना ॥ १३ ॥

अगौरगात्रैरललाटनॆत्रैः अशान्तवॆषैरभुजंगभूषैः ।
अबॊधमुद्रैरनपास्तनिद्रैः अपूरकामैरमरैरलं नः ॥ १४ ॥

दैवतानि कति सन्ति चावनौ नैव तानि मनसॊ मतानि मॆ ।
दीक्षितं जडधियामनुग्रहॆ दक्षिणाभिमुखमॆव दैवतम ॥ १५ ॥

मुदिताय मुग्द्धशशिनाऽवतंसिनॆ
भसितावलॆपरमणीयमूर्तयॆ ।
जगदिन्द्रजालरचनापटीयसॆ
महसॆ नमॊऽस्तु वटमूलवासिनॆ ॥ १६ ॥

व्यालंबिनीभिः परितॊ जटाभिः
कलावशॆषॆण कलाधरॆण ।
स्फुरल्ललाटॆन मुखॆन्दुना च
प्रकाशसॆ चॆतसि निर्मलानाम् ॥ १७ ॥

उपासकानां त्वमुमासहायः
पूर्णेन्दुभावं प्रकटीकरॊषि ।
यदद्य तॆ दर्शनमात्रतॊ मॆ
द्रवत्यहॊ मानसचन्द्रकान्तः ॥ १८ ॥

यस्तॆ प्रसन्नामनुसंदधानॊ
मूर्तिं मुदा मुग्द्धशशाङ्कमौलॆः ।
एश्वर्यमायुर्लभतॆ च विद्यां
अन्तॆ च वॆदान्तमहारहस्यम् ॥ १९ ॥

Monday, May 30, 2011

नवधा भक्ति


Navadhaa Bhakti (Nine types of bhakti)

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनं ।

अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥

Sravanam keertanam vishnoh smaranam paadasevanam

Archanam vandanam daasyam sakhyamaatmanivedanam [7.5.23]

Hearing stories about the glories of the Lord, singing His praises, remembering His captivating form and His exploits, serving His lotus-feet, worshipping Him by flowers and fruits, obeisance or prostration before Him , humble service to Him, friendship with Him and complete surrender to Him – these are the nine types of bhakti. The following sloka gives examples of devotees who excelled in each of these types of bhakti: